Sarga 23: Lakṣmaṇa's Anger

लक्ष्मणक्रोधः

lakṣmaṇakrodhaḥ — word-by-word gloss for all 41 shlokas.

Page 1 of 541 shlokas in this sarga (verified max-across-sources)
Shloka 23.1Word-by-word available

इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः। श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ।।2.23.1।।

Meaning

Shloka 23.2Word-by-word available

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः। निशश्वास महासर्पो बिलस्थ इव रोषितः ।।2.23.2।।

Meaning

Shloka 23.3Word-by-word available

तस्य दुष्प्रतिवीक्षं तद्भृकुटीसहितं तदा। बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ।।2.23.3।।

Meaning

Shloka 23.4Word-by-word available

अग्रहस्तं विधुन्वंस्तु हस्तिहस्तमिवात्मनः। तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ।।2.23.4।।

Meaning

Shloka 23.5Word-by-word available

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्। अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् ।।2.23.5।।

Meaning

Shloka 23.6Word-by-word available

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया। कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ।।2.23.6।।

Meaning

Shloka 23.7Word-by-word available

यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ। किं नाम कृपणं दैवमशक्तमभिशंससि ।।2.23.7।।

Meaning

Shloka 23.8Word-by-word available

पापयोस्ते कथं नाम तयोः शङ्का न विद्यते। सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे ।।2.23.8।।

Meaning

Shloka 23.9Word-by-word available

तयोः सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः। यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ।।2.23.9।।

Meaning

Shloka 23.10Word-by-word available

तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः। लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ।।2.23.10।।

Meaning