Sarga 23: Lakṣmaṇa's Anger
लक्ष्मणक्रोधः
lakṣmaṇakrodhaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि। येनेयमागता द्वैधं तव बुद्धिर्महामते ।।2.23.11।।
Meaning
स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि। कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ।।2.23.12।।
Meaning
करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्। यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते ।।2.23.13।।
Meaning
जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः। मनसाऽपि कथं कामं कुर्यास्त्वं कामवृत्तयोः ।।2.23.14।।
Meaning
तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः। यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।।2.23.15।।
Meaning
तथाप्युपेक्षणीयं ते न मे तदपि रोचते। विक्लबो वीर्यहीनो यः स दैवमनुवर्तते ।।2.23.16।।
Meaning
वीराः सम्भावितात्मानो न दैवं पर्युपासते। दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् ।।2.23.17।।
Meaning
न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति। द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च ।।2.23.18।।
Meaning
दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति। अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ।।2.23.19।।
Meaning
यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्। अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ।।2.23.20।।
Meaning