Sarga 23: Lakṣmaṇa's Anger
लक्ष्मणक्रोधः
lakṣmaṇakrodhaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
प्रधावितमहं दैवं पौरुषेण निवर्तये। लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् ।।2.23.21।।
Meaning
न च कृत्स्नास्त्रयो लोकाः विहन्युः किं पुनः पिता। यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः ।।2.23.22।।
Meaning
अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा। अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ।।2.23.23।।
Meaning
अभिषेकविघातेन पुत्रराज्याय वर्तते। मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ।।2.23.24।।
Meaning
प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम। ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् ।।2.23.25।।
Meaning
आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि। पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते ।।2.23.26।।
Meaning
प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने। स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ।।2.23.27।।
Meaning
नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि। प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् ।।2.23.28।।
Meaning
राज्यं च तव रक्षेयमहं वेलेव सागरम्। मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ।।2.23.29।।
Meaning
अहमेको महीपालानलं वारयितुं बलात्। न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ।।2.23.30।।
Meaning