Sarga 23: Lakṣmaṇa's Anger
लक्ष्मणक्रोधः
lakṣmaṇakrodhaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
नासिराबन्धनार्थाय न शराः स्तम्भहेतवः। अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ।।2.23.31।।
Meaning
न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम। असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ।।2.23.32।।
Meaning
प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये। खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे ।।2.23.33।।
Meaning
हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही। खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः ।।2.23.34।।
Meaning
पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः। बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ।।2.23.35।।
Meaning
कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते। बहुभिश्चैकमत्यस्यन्नैकेन च बहून् जनान् ।।2.23.36।।
Meaning
विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु। अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति ।।2.23.37।।
Meaning
राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो। अद्य चन्दनसारस्य केयुरामोक्षणस्य च ।।2.23.38।।
Meaning
वसूनां च विमोक्षस्य सुहृदां पालनस्य च। अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ।।2.23.39।।
Meaning
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः। यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किङ्करः ।।2.23.40।।
Meaning