Sarga 68: Envoys Sent
दूतप्रेषणम्
dūtapreṣaṇam — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः ।।2.68.1।।
Meaning
यदसौ मातुलकुले दत्तराज्यः परं सुखी । भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ।।2.68.2।।
Meaning
तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैः हयैः । आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ।।2.68.3।।
Meaning
गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् । तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ।।2.68.4।।
Meaning
एहि सिद्धार्थ विजय जयन्ताशोक नन्दन । श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ।।2.68.5।।
Meaning
पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैः हयैः । त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम ।।2.68.6।।
Meaning
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ।।2.68.7।।
Meaning
मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् । भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम् ।।2.68.8।।
Meaning
कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ।।2.68.9।।
Meaning
दत्तपथ्यशना दूताजग्मुः स्वं स्वं निवेशनम् । केकयांस्ते गमिष्यन्तो हयानारुह्य सम्मतान् ।।2.68.10।।
Meaning