← Ayodhyā Kāṇḍa

Sarga 68: Envoys Sent

दूतप्रेषणम्

dūtapreṣaṇam — word-by-word gloss for all 22 shlokas.

Jump to a shloka · 22 in this sarga

Page 2 of 322 shlokas in this sarga (verified max-across-sources)
Shloka 68.11Word-by-word available

ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सन्त्वरिता ययुः ।।2.68.11।।

Meaning

Shloka 68.12Word-by-word available

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति । निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम् ।।2.68.12।।

Meaning

Shloka 68.13Word-by-word available

ते हस्तिनापुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः । पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ।।2.68.13।।

Meaning

Shloka 68.14Word-by-word available

सरांसि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्धूताः कार्यवशाद्द्रुतम् ।।2.68.14।।

Meaning

Shloka 68.15Word-by-word available

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् ।।2.68.15।।

Meaning

Shloka 68.16Word-by-word available

निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् । अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् ।।2.68.16।।

Meaning

Shloka 68.17Word-by-word available

अभिकालं ततः प्राप्यते बोधिभवनाच्च्युताम् । पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम् ।।2.68.17।।

Meaning

Shloka 68.18Word-by-word available

अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान् । ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम् ।।2.68.18।।

Meaning

Shloka 68.19Word-by-word available

विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् । नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ।।2.68.19।।

Meaning

Shloka 68.20Word-by-word available

पश्यन्तो विविधांश्चापि सिंहव्याग्रमृगद्विपान् । ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः ।।2.68.20।।

Meaning