Sarga 21: Kausalyā and Lakṣmaṇa Counselled
कौसल्यालक्ष्मणप्रतिबोधनम्
kausalyālakṣmaṇapratibodhanam — word-by-word gloss for all 64 shlokas.
Jump to a shloka · 64 in this sarga
तथा तु विलपन्तीं तां कौसल्यां राममातरम्। उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ।।2.21.1।।
Meaning
न रोचते ममाप्येतदार्ये यद्राघवो वनम्। त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ।।2.21.2।।
Meaning
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः। नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ।।2.21.3।।
Meaning
नास्यापराधं पश्यामि नापि दोषं तथाविधम्। येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ।।2.21.4।।
Meaning
न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ।।2.21.5।।
Meaning
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्। अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ।।2.21.6।।
Meaning
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः। पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ।।2.21.7।।
Meaning
यावदेव न जानाति कश्चिदर्थमिमं नरः। तावदेव मया सार्धमात्मस्थं कुरु शासनम् ।।2.21.8।।
Meaning
मया पार्श्वे सधनुषा तव गुप्तस्य राघव। कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ।।2.21.9।।
Meaning
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ। करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ।।2.21.10।।
Meaning