← Ayodhyā Kāṇḍa

Sarga 21: Kausalyā and Lakṣmaṇa Counselled

कौसल्यालक्ष्मणप्रतिबोधनम्

kausalyālakṣmaṇapratibodhanam — word-by-word gloss for all 64 shlokas.

Page 2 of 764 shlokas in this sarga (verified max-across-sources)
Shloka 21.11Word-by-word available

भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति। सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ।।2.21.11।।

Meaning

Shloka 21.12Word-by-word available

प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता। अमित्रभूतो निःसङ्गं वध्यतां बध्यतामपि ।।2.21.12।।

Meaning

Shloka 21.13Word-by-word available

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ।।2.21.13।।

Meaning

Shloka 21.14Word-by-word available

बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ। दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ।।2.21.14।।

Meaning

Shloka 21.15Word-by-word available

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्। काऽस्य शक्तिः श्रियं दातुं भरतायारिशासन ।।2.21.15।।

Meaning

Shloka 21.16Word-by-word available

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः। सत्येन धनुषा चैव दत्तेनैष्टेन ते शपे ।।2.21.16।।

Meaning

Shloka 21.17Word-by-word available

दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति। प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ।।2.21.17।।

Meaning

Shloka 21.18Word-by-word available

हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः। देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ।।2.21.18।।

Meaning

Shloka 21.19Word-by-word available

हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्। कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ।।2.21.19।।

Meaning

Shloka 21.20Word-by-word available

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः। उवाच रामं कौसल्या रुदन्ती शोकलालसा ।।2.21.20।।

Meaning