← Ayodhyā Kāṇḍa

Sarga 21: Kausalyā and Lakṣmaṇa Counselled

कौसल्यालक्ष्मणप्रतिबोधनम्

kausalyālakṣmaṇapratibodhanam — word-by-word gloss for all 64 shlokas.

Page 3 of 764 shlokas in this sarga (verified max-across-sources)
Shloka 21.21Word-by-word available

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया। यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ।।2.21.21।।

Meaning

Shloka 21.22Word-by-word available

न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्। विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः ।।2.21.22।।

Meaning

Shloka 21.23Word-by-word available

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि। शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ।।2.21.23।।

Meaning

Shloka 21.24Word-by-word available

शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन्। परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ।।2.21.24।।

Meaning

Shloka 21.25Word-by-word available

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्। त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ।।2.21.25।।

Meaning

Shloka 21.26Word-by-word available

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा। त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ।।2.21.26।।

Meaning

Shloka 21.27Word-by-word available

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्। अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ।।2.21.27।।

Meaning

Shloka 21.28Word-by-word available

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्। ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः ।।2.21.28।।

Meaning

Shloka 21.29Word-by-word available

विलपन्तीं तदा दीनां कौसल्यां जननीं ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ।।2.21.29।।

Meaning

Shloka 21.30Word-by-word available

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम। प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ।।2.21.30।।

Meaning