Sarga 21: Kausalyā and Lakṣmaṇa Counselled
कौसल्यालक्ष्मणप्रतिबोधनम्
kausalyālakṣmaṇapratibodhanam — word-by-word gloss for all 64 shlokas.
Jump to a shloka · 64 in this sarga
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा। गौर्हता जानता धर्मं कण्डुनाऽपि विपश्चिता ।।2.21.31।।
Meaning
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः। खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः ।।2.21.32।।
Meaning
जामदग्न्येन रामेण रेणुका जननी स्वयम्। कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ।।2.21.33।।
Meaning
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्। पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ।।2.21.34।।
Meaning
न खल्वेतन्मयैकेन क्रियते पित्ष्शासनम्। एतैरपि कृतं देवि ये मया तव कीर्तिताः ।।2.21.35।।
Meaning
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये। पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ।।2.21.36।।
Meaning
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा। पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ।।2.21.37।।
Meaning
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्। वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ।।2.21.38।।
Meaning
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्। विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ।।2.21.39।।
Meaning
मम मातुर्महद्दुःखमतुलं शुभलक्षण। अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ।।2.21.40।।
Meaning