Sarga 21: Kausalyā and Lakṣmaṇa Counselled
कौसल्यालक्ष्मणप्रतिबोधनम्
kausalyālakṣmaṇapratibodhanam — word-by-word gloss for all 64 shlokas.
Jump to a shloka · 64 in this sarga
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्। धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ।।2.21.41।।
Meaning
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा। न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ।।2.21.42।।
Meaning
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम्। पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः ।।2.21.43।।
Meaning
तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्। धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ।।2.21.44।।
Meaning
तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः। उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ।।2.21.45।।
Meaning
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्। शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ।।2.21.46।।
Meaning
तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम्। ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ।।2.21.47।।
Meaning
शोकः सन्धार्यतां मातर्हृदये साधु मा शुचः। वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ।।2.21.48।।
Meaning
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया। पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ।।2.21.49।।
Meaning
अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च। वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ।।2.21.50।।
Meaning