Sarga 21: Kausalyā and Lakṣmaṇa Counselled
कौसल्यालक्ष्मणप्रतिबोधनम्
kausalyālakṣmaṇapratibodhanam — word-by-word gloss for all 64 shlokas.
Jump to a shloka · 64 in this sarga
एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लबं च। मृतेव सञ्ज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ।।2.21.51।।
Meaning
यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च। न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम् ।।2.21.52।।
Meaning
किं जीवितेनैह विना त्वया मे लोकेन वा किं स्वधयामृतेन। श्रेयो मुहूर्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात् ।।2.21.53।।
Meaning
नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः। भूयः प्रजज्वाल विलापमेनं निशम्य रामः करुणं जनन्याः ।।2.21.54।।
Meaning
स मातरं चैव विसञ्ज्ञकल्पामार्तं च सौमित्रिमभिप्रतप्तम्। धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ।।2.21.55।।
Meaning
अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च। मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ।।2.21.56।।
Meaning
धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफलोदयेषु। ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सुपुत्रा ।।2.21.57।।
Meaning
यस्मिंस्तु सर्वे स्युरसन्निविष्टाः धर्मो यतः स्यात्तदुपक्रमेत। द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ।।2.21.58।।
Meaning
गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षाद्यदि वापि कामात्। यद्व्यादिशेत्कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्तिः ।।2.21.59।।
Meaning
स वै न शक्नोमि पितुः प्रतिज्ञामिमामकर्तुं सकलां यथावत्। स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिः स धर्मः ।।2.21.60।।
Meaning