Sarga 97: Praise of Bharata's Virtue
भरतगुणप्रशंसा
bharataguṇapraśaṃsā — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह । एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ।।2.97.21।।
Meaning
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ । वनवासमनुध्याय गृहाय प्रतिनेष्यति ।।2.97.22।।
Meaning
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम् । पिता मे राघवः श्रीमान् वनादादाय यास्यति ।।2.97.23।।
Meaning
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ । वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ।।2.97.24।।
Meaning
सैष सुमहाकायः कम्पते वाहिनीमुखे । नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ।।2.97.25।।
Meaning
न तु पश्यामि तच्छत्त्रं पाण्डरं लोकसत्कृतम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ।।2.97.26।।
Meaning
वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः । इतीव रामो धर्मात्मा सौमित्रं तमुवाच ह ।।2.97.27।।
Meaning
अवतीर्य तु सालाग्रात्तस्मात्स समितिञ्जयः । लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ।।2.97.28।।
Meaning
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति । समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ।।2.97.29।।
Meaning
अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा । पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ।।2.97.30।।
Meaning