← Ayodhyā Kāṇḍa

Sarga 9: Plotting Rāma's Exile

रामप्रवासनोपायचिन्ता

rāmapravāsanopāyacintā — word-by-word gloss for all 66 shlokas.

Page 2 of 766 shlokas in this sarga (verified max-across-sources)
Shloka 9.11Word-by-word available

तव दैवासुरे युद्धे सह राजर्षिभिः पतिः। अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ।।2.9.11।।

Meaning

Shloka 9.12Word-by-word available

दिशमास्थाय वै देवि दक्षिणां दण्डकान्प्रति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ।।2.9.12।।

Meaning

Shloka 9.13Word-by-word available

स शम्बर इति ख्यातः शतमायो महासुरः। ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः ।।2.9.13।।

Meaning

Shloka 9.14Word-by-word available

तस्मिन् महति सङ्ग्रामे पुरुषान् क्षतविक्षतान्। रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसाऽसाद्य राक्षसाः ।।2.9.14।।

Meaning

Shloka 9.15Word-by-word available

तत्राकरोन्महद्युद्धं राजा दशरथस्तदा। असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ।।2.9.15।।

Meaning

Shloka 9.16Word-by-word available

अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः। तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ।।2.9.16।।

Meaning

Shloka 9.17Word-by-word available

तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने। स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ।।2.9.17।।

Meaning

Shloka 9.18Word-by-word available

गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना। अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ।।2.9.18।।

Meaning

Shloka 9.19Word-by-word available

कथैषा तव तु स्नेहात् मनसा धार्यते मया। रामाभिषेकसम्भारान्निगृह्य विनिवर्तय ।।2.9.19।।

Meaning

Shloka 9.20Word-by-word available

तौ वरौ याच भर्तारं भरतस्याभिषेचनम्। प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ।।2.9.20।।

Meaning