Sarga 9: Plotting Rāma's Exile
रामप्रवासनोपायचिन्ता
rāmapravāsanopāyacintā — word-by-word gloss for all 66 shlokas.
Jump to a shloka · 66 in this sarga
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ।।2.9.21।।
Meaning
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते। शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ।।2.9.22।।
Meaning
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः। रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ।।2.9.23।।
Meaning
दयिता त्वं सदा भर्तुः अत्र मे नास्ति संशयः। त्वत्कृते स महाराजो विशेदपि हुताशनम् ।।2.9.24।।
Meaning
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्। तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ।।2.9.25।।
Meaning
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः। मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ।।2.9.26।।
Meaning
मणिमुक्तं सुवर्णानि रत्नानि विविधानि च। दद्याद्दशरथो राजा मास्म तेषु मनः कृथाः ।।2.9.27।।
Meaning
यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात्। तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत् ।।2.9.28।।
Meaning
यदातु ते वरं दद्यात् स्वयमुत्थाप्य राघवः। व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ।।2.9.29।।
Meaning
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च। भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः ।।2.9.30।।
Meaning