Sarga 9: Plotting Rāma's Exile
रामप्रवासनोपायचिन्ता
rāmapravāsanopāyacintā — word-by-word gloss for all 66 shlokas.
Jump to a shloka · 66 in this sarga
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ।।2.9.31।।
Meaning
रामप्रव्राजनं चैव देवि याचस्व तं वरम्। एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनी ।।2.9.32।।
Meaning
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति। भरतश्च हतामित्रस्तव राजा भविष्यति ।।2.9.33।।
Meaning
येन कालेन रामश्च वनात्प्रत्यागमिष्यति। तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ।।2.9.34।।
Meaning
सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान्। प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा ।।2.9.35।।
Meaning
रामाभिषेकसम्भारान्निगृह्य विनिवर्तय। अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ।।2.9.36।।
Meaning
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्। सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।।2.9.37।।
Meaning
कैकेयी विस्मयं प्राप्ता परं परमदर्शना। कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ।।2.9.38।।
Meaning
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये। त्वमेव तु ममाऽर्थेषु नित्ययुक्ता हितैषिणी ।।2.9.39।।
Meaning
नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्। सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ।।2.9.40।।
Meaning