Sarga 9: Plotting Rāma's Exile
रामप्रवासनोपायचिन्ता
rāmapravāsanopāyacintā — word-by-word gloss for all 66 shlokas.
Jump to a shloka · 66 in this sarga
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना। उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात् समुन्नतम् ।।2.9.41।।
Meaning
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम्। परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ।।2.9.42।।
Meaning
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे। जघनं तव निर्घुष्टं रशनादामशोभितम् ।।2.9.43।।
Meaning
जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ। त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।।2.9.44।।
Meaning
अग्रतो मम गच्छन्ती राजहंसीव राजसे। आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ।।2.9.45।।
Meaning
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः। तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ।।2.9.46।।
Meaning
मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते। अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ।।2.9.47।।
Meaning
अभिषिक्ते च भरते राघवे च वनं गते। जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे ।।2.9.48।।
Meaning
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। मुखे च तिलकं चित्रं जातरूपमयं शुभम् ।।2.9.49।।
Meaning
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ।।2.9.50।।
Meaning