Sarga 9: Plotting Rāma's Exile
रामप्रवासनोपायचिन्ता
rāmapravāsanopāyacintā — word-by-word gloss for all 66 shlokas.
Jump to a shloka · 66 in this sarga
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् ।।2.9.51।।
Meaning
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः। पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ।।2.9.52।।
Meaning
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्। शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ।।2.9.53।।
Meaning
गतोदके सेतुबन्धो न कल्याणि विधीयते। उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय ।।2.9.54।।
Meaning
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह। क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ।।2.9.55।।
Meaning
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना। अवमुच्य वरार्हाणि शुभान्याभरणानि च ।।2.9.56।।
Meaning
ततो हेमोपमा तत्र कुब्जावाक्यवशं गता। संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ।।2.9.57।।
Meaning
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि। वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ।।2.9.58।।
Meaning
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।।2.9.59।।
Meaning
अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः। उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ।।2.9.60।।
Meaning