← Ayodhyā Kāṇḍa

Sarga 9: Plotting Rāma's Exile

रामप्रवासनोपायचिन्ता

rāmapravāsanopāyacintā — word-by-word gloss for all 66 shlokas.

Page 7 of 766 shlokas in this sarga (verified max-across-sources)
Shloka 9.61Word-by-word available

प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे। अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते ।।2.9.61।।

Meaning

Shloka 9.62Word-by-word available

तथाऽतिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः। निधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः ।।2.9.62।।

Meaning

Shloka 9.63Word-by-word available

यमस्य वा मां विषयं गतामितो निशाम्य कुब्जे प्रतिवेदयिष्यसि। वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति ।।2.9.63।।

Meaning

Shloka 9.64Word-by-word available

अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्। न किञ्चिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ।।2.9.64।।

Meaning

Shloka 9.65Word-by-word available

अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी। असंवृतामास्तरणेन मेदिनीमथाधिशिश्ये पतितेव किन्नरी ।।2.9.65।।

Meaning

Shloka 9.66Word-by-word available

उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका ।।2.9.66।।

Meaning