Sarga 118: Receiving Divine Ornaments
दिव्यालङ्कारग्रहणम्
divyālaṅkāragrahaṇam — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।।2.118.21।।
Meaning
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।।2.118.22।।
Meaning
तथा सीतासुपासीनामनसूया दृढव्रता । वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।।2.118.23।।
Meaning
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । राघवेणेति मे सीते कथा श्रुतिमुपागता ।।2.118.24।।
Meaning
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।।2.118.25।।
Meaning
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।।2.118.26।।
Meaning
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ।।2.118.27।।
Meaning
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ।।2.118.28।।
Meaning
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत् ।।2.118.29।।
Meaning
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ।।2.118.30।।
Meaning