← Ayodhyā Kāṇḍa

Sarga 118: Receiving Divine Ornaments

दिव्यालङ्कारग्रहणम्

divyālaṅkāragrahaṇam — word-by-word gloss for all 54 shlokas.

Page 4 of 654 shlokas in this sarga (verified max-across-sources)
Shloka 118.31Word-by-word available

अन्तरिक्षे च वागुक्ता प्रति माममानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ।।2.118.31।।

Meaning

Shloka 118.32Word-by-word available

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः । अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ।।2.118.32।।

Meaning

Shloka 118.33Word-by-word available

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।।2.118.33।।

Meaning

Shloka 118.34Word-by-word available

पतिसम्योगसुलभं वयो दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ।।2.118.34।।

Meaning

Shloka 118.35Word-by-word available

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।।2.118.35।।

Meaning

Shloka 118.36Word-by-word available

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः । चिन्तार्णवगतः पारं नाससादाप्लवो यथा ।।2.118.36।।

Meaning

Shloka 118.37Word-by-word available

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । सदृशं चानुरूपं च महीपालः पतिं मम ।।2.118.37।।

Meaning

Shloka 118.38Word-by-word available

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजायाः करिष्यामीति धीमतः ।।2.118.38।।

Meaning

Shloka 118.39Word-by-word available

महायज्ञे तदा तस्य वरुणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।।2.118.39।।

Meaning

Shloka 118.40Word-by-word available

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ।।2.118.40।।

Meaning