Sarga 118: Receiving Divine Ornaments
दिव्यालङ्कारग्रहणम्
divyālaṅkāragrahaṇam — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।।2.118.41।।
Meaning
इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः । तस्य मे दुहिता भार्या भविष्यति न संशयः ।।2.118.42।।
Meaning
तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।।2.118.43।।
Meaning
सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ।।2.118.44।।
Meaning
लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः । विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ।।2.118.45।।
Meaning
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ । सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ ।।2.118.46।।
Meaning
धनुर्दर्शय रामाय राजपुत्राय दैविकम् । इत्युक्तस्तेन विप्रेन तद्धनुः समुपानयत् ।।2.118.47।।
Meaning
निमेषान्तरमात्रेण तदानम्य स वीर्यवान् । ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।।2.118.48।।
Meaning
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ।।2.118.49।।
Meaning
ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।।2.118.50।।
Meaning