Sarga 8: Mantharā's Whispering
मन्थरोपजापः
mantharopajāpaḥ — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ।।2.8.21।।
Meaning
भविता राघवो राजा राघवस्यानु यः सुतः। राजवंशात्तु कैकेयी भरतः परिहास्यते ।।2.8.22।।
Meaning
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि। स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ।।2.8.23।।
Meaning
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ।।2.8.24।।
Meaning
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ।।2.8.25।।
Meaning
साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे। सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ।।2.8.26।।
Meaning
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्। देशान्तरं वा नयिता लोकान्तरमथाऽपि वा ।।2.8.27।।
Meaning
बाल एव हि मातुल्यं भरतो नायितस्त्वया। सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ।।2.8.28।।
Meaning
भरतस्याप्यनुवशः शत्रुघ्नोऽपि समागतः। लक्ष्मणश्च यथा रामं तथासौ भरतं गतः ।।2.8.29।।
Meaning
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः। सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात् ।।2.8.30।।
Meaning