← Ayodhyā Kāṇḍa

Sarga 8: Mantharā's Whispering

मन्थरोपजापः

mantharopajāpaḥ — word-by-word gloss for all 39 shlokas.

Page 4 of 439 shlokas in this sarga (verified max-across-sources)
Shloka 8.31Word-by-word available

गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः। अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ।।2.8.31।।

Meaning

Shloka 8.32Word-by-word available

तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति। रामस्तु भरते पापं कुर्यादिति न संशयः ।।2.8.32।।

Meaning

Shloka 8.33Word-by-word available

तस्माद्राजगृहाद्देव वनं गच्छतु ते सुतः। एतद्धि रोचते मह्यं भृशं चापि हितं तव ।।2.8.33।।

Meaning

Shloka 8.34Word-by-word available

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति। यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यसि ।।2.8.34।।

Meaning

Shloka 8.35Word-by-word available

स ते सुखोचितो बालो रामस्य सहजो रिपुः। समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ।।2.8.35।।

Meaning

Shloka 8.36Word-by-word available

अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्। प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ।।2.8.36।।

Meaning

Shloka 8.37Word-by-word available

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया। राममाता सपत्नी ते कथं वैरं न यातयेत् ।।2.8.37।।

Meaning

Shloka 8.38Word-by-word available

यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम्। तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ।।2.8.38।।

Meaning

Shloka 8.39Word-by-word available

यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति। अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम् ।।2.8.39।।

Meaning