← Ayodhyā Kāṇḍa

Sarga 100: Rāma's Questions on Kingship

कच्चित्सर्गः

kaccitsargaḥ — word-by-word gloss for all 76 shlokas.

Page 5 of 876 shlokas in this sarga (verified max-across-sources)
Shloka 100.41Word-by-word available

ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा । जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ।।2.100.41।।

Meaning

Shloka 100.42Word-by-word available

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ।।2.100.42।।

Meaning

Shloka 100.43Word-by-word available

कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः । देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ।।2.100.43।।

Meaning

Shloka 100.44Word-by-word available

प्रहृष्टनरनारीकः समाजोत्सवशोभितः । सुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः ।।2.100.44।।

Meaning

Shloka 100.45Word-by-word available

अदेवमातृको रम्यः श्वापदैः परिवर्जितः । परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ।।2.100.45।।

Meaning

Shloka 100.46Word-by-word available

विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः । कच्चिज्जनपदः स्फीतः सुखं वसति राघव ।।2.100.46।।

Meaning

Shloka 100.47Word-by-word available

कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । वार्तायां संश्रितस्तात लोको हि सुखमेधते ।।2.100.47।।

Meaning

Shloka 100.48Word-by-word available

तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ।।2.100.48।।

Meaning

Shloka 100.49Word-by-word available

कच्चिस्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः । कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ।।2.100.49।।

Meaning

Shloka 100.50Word-by-word available

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ।।2.100.50।।

Meaning