Sarga 100: Rāma's Questions on Kingship
कच्चित्सर्गः
kaccitsargaḥ — word-by-word gloss for all 76 shlokas.
Jump to a shloka · 76 in this sarga
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ।।2.100.51।।
Meaning
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ।।2.100.52।।
Meaning
कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ।।2.100.53।।
Meaning
आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ।।2.100.54।।
Meaning
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ।।2.100.55।।
Meaning
कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा । अपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ।।2.100.56।।
Meaning
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ।।2.100.57।।
Meaning
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ।।2.100.58।।
Meaning
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । तानि पुत्रन्पशून् घ्नन्ति प्रीत्यर्थमनुशासतः ।।2.100.59।।
Meaning
कच्चिद्वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ।।2.100.60।।
Meaning