Sarga 100: Rāma's Questions on Kingship
कच्चित्सर्गः
kaccitsargaḥ — word-by-word gloss for all 76 shlokas.
Jump to a shloka · 76 in this sarga
कच्चिद्गुरूंश्च वृद्धांश्च तापसान्देवतातिथीन् । चैत्यांश्च सर्वान्सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ।।2.100.61।।
Meaning
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ।।2.100.62।।
Meaning
कच्चिदर्थं च धर्मं च कामं च जयतांवर । विभज्य काले कालज्ञ सर्वान्वरद सेवसे ।।2.100.63।।
Meaning
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ।।2.100.64।।
Meaning
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।।2.100.65।।
Meaning
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।।2.100.66।।
Meaning
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः । कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ।।2.100.67।।
Meaning
दशपञ्च चतुर्वर्गान्सप्तवर्गं च तत्त्वतः । अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ।।2.100.68।।
Meaning
इन्द्रियाणां जयं बुद्ध्वा षाड्गुण्यं दैवमानुषम् । कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम् ।।2.100.69।।
Meaning
यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे ।।2.100.70।।
Meaning