← Ayodhyā Kāṇḍa

Sarga 100: Rāma's Questions on Kingship

कच्चित्सर्गः

kaccitsargaḥ — word-by-word gloss for all 76 shlokas.

Page 8 of 876 shlokas in this sarga (verified max-across-sources)
Shloka 100.71Word-by-word available

मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः ।।2.100.71।।

Meaning

Shloka 100.72Word-by-word available

कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः । कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ।।2.100.72।।

Meaning

Shloka 100.73Word-by-word available

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ।।2.100.73।।

Meaning

Shloka 100.74Word-by-word available

यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः । तां वृत्तिं वर्तसे कच्चिद्या च सत्पथगा शुभा ।।2.100.74।।

Meaning

Shloka 100.75Word-by-word available

कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ।।2.100.75।।

Meaning

Shloka 100.76Word-by-word available

राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् । अवाप्य कृत्स्नां वसुधां यथावत् इतश्च्युतः स्वर्गमुपैति विद्वान् ।।2.100.76।।

Meaning