Sarga 86: Guha's Account
गुहवाक्यम्
guhavākyam — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि । तं पश्य गुह संविष्टं तृणेषु सह सीतया ।।2.86.11।।
Meaning
महता तपसा लब्धो विविधैश्च परिश्रमैः । एको दशरथस्यैष पुत्रः सदृशलक्षणः ।।2.86.12।।
Meaning
अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ।।2.86.13।।
Meaning
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः । निर्घोषोपरतं नूनमद्य राजनिवेशनम् ।।2.86.14।।
Meaning
कौसल्या चैव राजा च तथैव जननी मम । नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम् ।।2.86.15।।
Meaning
जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया । दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ।।2.86.16।।
Meaning
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् । राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ।।2.86.17।।
Meaning
सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते । प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ।।2.86.18।।
Meaning
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् । हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ।।2.86.19।।
Meaning
गजाश्वरथसम्बाधां तूर्यनादविनादिताम् । सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ।।2.86.20।।
Meaning