Sarga 109: In Praise of Truth
सत्यप्रशंसा
satyapraśaṃsā — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताश्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ।।2.109.31।।
Meaning
तेनैवमाज्ञाय यथावदर्थम् एकोदयं सम्प्रतिपद्य विप्राः । धर्मं चरन्तः सकलं यथावत् काङ्क्षन्ति लोकागममप्रमत्ताः ।।2.109.32।।
Meaning
निन्दाम्यहं कर्म पितुः कृतं तत् यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । बुद्ध्यानयैवंविधया चरन्तम् सुनास्तिकं धर्मपथादपेतम् ।।2.109.33।।
Meaning
यथा हि चोरः स तथा हि बुद्धः तथागतं नास्तिकमत्र विद्धि । तस्माद्धि यः शङ्क्यतमः प्रजानाम् न नास्तिकेनाभिमुखो बुधः स्यात् ।।2.109.34।।
Meaning
त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः । जित्वा सदेमं च परञ्च लोकम् तस्माद्द्विजाः स्वस्ति हुतं कृतं च ।।2.109.35।।
Meaning
धर्मे रताः सत्पुरुषैः समेताः तेजस्विनो दानगुणप्रधानाः । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ।।2.109.36।।
Meaning
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ।।2.109.37।।
Meaning
न नास्तिकानां वचनं ब्रवीम्यहम् न चास्तिकोऽहम् न च नास्ति किञ्चन । समीक्ष्य कालं पुनरास्तिकोऽभवम् भवेय काले पुनरेव नास्तिकः ।।2.109.38।।
Meaning
स चापि कालोऽयमुपागतश्शनैः यथा मया नास्तिकवागुदीरिता । निवर्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ।।2.109.39।।
Meaning