← Ayodhyā Kāṇḍa

Sarga 60: Kausalyā Consoled

कौसल्यासमाश्वासनम्

kausalyāsamāśvāsanam — word-by-word gloss for all 23 shlokas.

Jump to a shloka · 23 in this sarga

Page 2 of 323 shlokas in this sarga (verified max-across-sources)
Shloka 60.11Word-by-word available

तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् । अयोध्याऽपि भवेत्तस्याः रामहीना तथा वनम् ।।2.60.11।।

Meaning

Shloka 60.12Word-by-word available

परिपृच्छति वैदेही ग्रामांश्च नगराणि च । गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि ।।2.60.12।।

Meaning

Shloka 60.13Word-by-word available

रामं हि लक्ष्मणं वाऽपि पृष्ट्वा जानाति जानकी । अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ।।2.60.13।।

Meaning

Shloka 60.14Word-by-word available

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ।।2.60.14।।

Meaning

Shloka 60.15Word-by-word available

ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपस्थितम् । ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ।।2.60.15।।

Meaning

Shloka 60.16Word-by-word available

अध्वना वातवेगेन सम्भ्रमेणातपेन च । न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ।।2.60.16।।

Meaning

Shloka 60.17Word-by-word available

सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् । वदनं तद्वदान्यायाः वैदेह्या न विकम्पते ।।2.60.17।।

Meaning

Shloka 60.18Word-by-word available

अलक्तरसरक्ताभौ अलक्तरसवर्जितौ । अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ।।2.60.18।।

Meaning

Shloka 60.19Word-by-word available

नूपुरोद्घुष्टहेलैव खेलं गच्छति भामिनी । इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ।।2.60.19।।

Meaning

Shloka 60.20Word-by-word available

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता । नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ।।2.60.20।।

Meaning