Sarga 104: Dialogue of Rāma and Bharata
रामभरतसंवादः
rāmabharatasaṃvādaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
भवत्वविधवा भूमिः समग्रा पतिना त्वया । शशिना विमलेन शारदी रजनी यथा ।।2.104.11।।
Meaning
एभिश्च सचिवैः सार्धं शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ।।2.104.12।।
Meaning
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ।।2.104.13।।
Meaning
एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः । रामस्य शिरसा पादौ जग्राह विधिवत्पुनः ।।2.104.14।।
Meaning
तं मत्तमिव मातङ्गं निःश्वसन्तं पुनःपुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ।।2.104.15।।
Meaning
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः । राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ।।2.104.16।।
Meaning
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ।।2.104.17।।
Meaning
कामकारो महाप्राज्ञ गुरूणां सर्वदानघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।।2.104.18।।
Meaning
वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः । भार्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ।।2.104.19।।
Meaning
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वरः ।।2.104.20।।
Meaning