Sarga 104: Dialogue of Rāma and Bharata
रामभरतसंवादः
rāmabharatasaṃvādaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ।।2.104.21।।
Meaning
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ।।2.104.22।।
Meaning
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ।।2.104.23।।
Meaning
एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजाः दिवं दशरथो गतः ।।2.104.24।।
Meaning
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ।।2.104.25।।
Meaning
चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः । उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ।।2.104.26।।
Meaning
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः । तदेव मन्ये परमात्मनो हितम् न सर्वलोकेश्वरभावमप्यहम् ।।2.104.27।।
Meaning