← Ayodhyā Kāṇḍa

Sarga 33: The Citizens Speak

पौरवाक्यम्

pauravākyam — word-by-word gloss for all 31 shlokas.

Jump to a shloka · 31 in this sarga

Page 3 of 431 shlokas in this sarga (verified max-across-sources)
Shloka 33.21Word-by-word available

दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च। अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ।।2.33.21।।

Meaning

Shloka 33.22Word-by-word available

वनं नगरमेवास्तु येन गच्छति राघवः। अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ।।2.33.22।।

Meaning

Shloka 33.23Word-by-word available

बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः। त्यजन्त्यस्मद्भयाद्भीताः गजाः सिंहा वनान्यपि ।।2.33.23।।

Meaning

Shloka 33.24Word-by-word available

अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च। तृणमांसफलादानां देशं व्यालमृगद्विजम् ।।2.33.24।।

Meaning

Shloka 33.25Word-by-word available

प्रपद्यतां हि कैकेयी सपुत्रा सहबान्धवैः। राघवेण वने सर्वे सहवत्स्याम निर्वृताः ।।2.33.25।।

Meaning

Shloka 33.26Word-by-word available

इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ।।2.33.26।।

Meaning

Shloka 33.27Word-by-word available

स तु वेश्म पितुर्दूरात्कैलासशिखरप्रभम्। अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ।।2.33.27।।

Meaning

Shloka 33.28Word-by-word available

विनीतवीरपुरुषं प्रविश्य तु नृपालयम्। ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ।।2.33.28।।

Meaning

Shloka 33.29Word-by-word available

प्रतीक्षमाणोऽपि जनं तदार्तमनार्तरूपः प्रहसन्निवाथ। जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ।।2.33.29।।

Meaning

Shloka 33.30Word-by-word available

तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम्। व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ।।2.33.30।।

Meaning