Sarga 25: A Mother's Blessing for the Journey
मातृस्वस्त्ययनम्
mātṛsvastyayanam — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः। स्कन्दश्च भगवान्देवः सोमश्च सबृहस्पतिः ।।2.25.11।।
Meaning
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः। ये चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः ।।2.25.12।।
Meaning
स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः। शैलाः सर्वे समुद्राश्च राजा वरुण एव च ।।2.25.13।।
Meaning
द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च। नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः ।।2.25.14।।
Meaning
अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम्। ऋतवश्चैव षट् पुण्या मासाः संवत्सरास्तथा ।।2.25.15।।
Meaning
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते। महावने विचरतो मुनिवेषस्य धीमतः ।।2.25.16।।
Meaning
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा। राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् ।।2.25.17।।
Meaning
क्रव्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम्। प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ।।2.25.18।।
Meaning
सरीसृपाश्च कीटाश्च मा भूवन्गहने तव। महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ।।2.25.19।।
Meaning
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक। नृमांसभोजिनो रौद्रा ये चान्ये सत्त्वजातयः ।।2.25.20।।
Meaning