Sarga 25: A Mother's Blessing for the Journey
मातृस्वस्त्ययनम्
mātṛsvastyayanam — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह। आगमास्ते शिवाः सन्तु सिद्ध्यन्तु च पराक्रमाः ।।2.25.21।।
Meaning
सर्वसम्पत्तये राम स्वस्तिमान्गच्छ पुत्रक। स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ।।2.25.22।।
Meaning
सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः। शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ।।2.25.23।।
Meaning
पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्। अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः ।।2.25.24।।
Meaning
उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन। सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ।।2.25.25।।
Meaning
ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम्। इति माल्यैः सुरगणान्गन्धैश्चापि यशस्विनी ।।2.25.26।।
Meaning
स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना। ज्वलनं समुपादाय ब्राह्मणेन महात्मना ।।2.25.27।।
Meaning
हावयामास विधिना राममङ्गलकारणात्। घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ।।2.25.28।।
Meaning
उपसम्पादयामास कौसल्या परमाङ्गना। उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् ।।2.25.29।।
Meaning
हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्। मधुदध्यक्षतघृतैः स्वस्तिवाच्य द्विजांस्ततः ।।2.25.30।।
Meaning