Sarga 25: A Mother's Blessing for the Journey
मातृस्वस्त्ययनम्
mātṛsvastyayanam — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः। ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ।।2.25.31।।
Meaning
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्। यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।।2.25.32।।
Meaning
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्। यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा ।।2.25.33।।
Meaning
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्। अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।।2.25.34।।
Meaning
अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम्। त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः ।।2.25.35।।
Meaning
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम्। ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते ।।2.25.36।।
Meaning
मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः। इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी ।।2.25.37।।
Meaning
गन्धैश्चापि समालभ्य राममायतलोचना। ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।।2.25.38।।
Meaning
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च। उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी ।।2.25.39।।
Meaning
वाङ्मात्रेण न भावेन वाचा संसज्जमानया। आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।।2.25.40।।
Meaning