Sarga 25: A Mother's Blessing for the Journey
मातृस्वस्त्ययनम्
mātṛsvastyayanam — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम्। अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।।2.25.41।।
Meaning
पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि। प्रनष्टदुःखसङ्कल्पा हर्षविद्योतितानना ।।2.25.42।।
Meaning
द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम्। भद्रासनगतं राम वनवासादिहागतम् ।।2.25.43।।
Meaning
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः। मङ्गलैरुपसम्पन्नो वनवासादिहागतः। वध्वा मम च नित्यं त्वं कामान् संवर्ध याहि भो ।।2.25.44।।
Meaning
मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः। अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव ।।2.25.45।।
Meaning
इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि। प्रदक्षिणं चैव चकार राघवं पुनः पुनश्चापि निपीड्य सस्वजे ।।2.25.46।।
Meaning
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः। जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितः स्वया श्रिया ।।2.25.47।।
Meaning