Sarga 35: Sumantra Rebukes Kaikeyī
सुमन्त्रगर्हणम्
sumantragarhaṇam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति । तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ।।2.35.11।।
Meaning
नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम् । त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ।।2.35.12।।
Meaning
का प्रीती राज्यलाभेन तव देवि भविष्यति । तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि ।।2.35.13।।
Meaning
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् । आचरन्त्या न विवृता सद्यो भवति मेदिनी ।।2.35.14।।
Meaning
महाब्रह्मर्षिसृष्टा हि ज्वलन्तो भीमदर्शनाः । धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ।।2.35.15।।
Meaning
आम्रं छित्वा कुठारेन निम्बं परिचरेत्तु यः । यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ।।2.35.16।।
Meaning
अभिजातं हि ते मन्ये यथा मातुस्तथैव च । न हि निम्बात्स्रवेत्क्षौद्रं लोके निगदितं वचः ।।2.35.17।।
Meaning
तव मातुरसद्ग्राहं विद्मः पूर्वं यथा श्रुतम् । पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ।।2.35.18।।
Meaning
सर्वभूतरुतं तस्मात्सञ्जज्ञे वसुधाधिपः । तेन तिर्यग्गतानां च भूतानां विदितं वचः ।।2.35.19।।
Meaning
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः । पितुस्ते विदितो भावः स तत्र बहुधाहसत् ।।2.35.20।।
Meaning