Sarga 35: Sumantra Rebukes Kaikeyī
सुमन्त्रगर्हणम्
sumantragarhaṇam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती । हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत् ।।2.35.21।।
Meaning
नृपश्चोवाच तां देवीं देवि शंसामि ते यदि । ततो मे मरणं सद्यो भविष्यति न संशयः ।।2.35.22।।
Meaning
माता ते पितरं देवि ततः केकयमब्रवीत् । शंस मे जीव वा मा वा न मामपहसिष्यसि ।।2.35.23।।
Meaning
प्रियया च तथोक्तः सन्केकयः पृथिवीपतिः । तस्मै तं वरदायार्थं कथयामास तत्त्वतः ।।2.35.24।।
Meaning
ततः स वरदः साधू राजानं प्रत्यभाषत । म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते ।।2.35.25।।
Meaning
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः । मातरं ते निरस्याशु विजहार कुबेरवत् ।।2.35.26।।
Meaning
तथा त्वमपि राजानं दुर्जनाचरिते पथि । असद्ग्राहमिमं मोहात्कुरुषे पापदर्शिनि ।।2.35.27।।
Meaning
सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा । पितॄन्समनुजायन्ते नरा मातरमङ्गनाः ।।2.35.28।।
Meaning
नैवं भव गृहाणेदं यदाह वसुधाधिपः । भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ।।2.35.29।।
Meaning
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् । भर्तारं लोकभर्तारमसद्धर्ममुपादधाः ।।2.35.30।।
Meaning