Sarga 35: Sumantra Rebukes Kaikeyī
सुमन्त्रगर्हणम्
sumantragarhaṇam — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः । श्रीमान्दशरथो राजा देवि राजीवलोचनः ।।2.35.31।।
Meaning
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्याभिरक्षिता । रक्षिता जीवलोकस्य ब्रूहि रामोऽभिषिच्यताम् ।।2.35.32।।
Meaning
परिवादो हि ते देवि महांल्लोके चरिष्यति । यदि रामो वनं याति विहाय पितरं नृपम् ।।2.35.33।।
Meaning
स राज्यं राघवः पातु भव त्वं विगतज्वरा । न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ।।2.35.34।।
Meaning
रामे हि यौवराज्यस्थे राजा दशरथो वनम् । प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ।।2.35.35।।
Meaning
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि । सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ।।2.35.36।।
Meaning
नैव सा क्षुभ्यते देवी न च स्म परिदूयते । न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ।।2.35.37।।
Meaning