← Ayodhyā Kāṇḍa

Sarga 67: The Plight of a Kingless Land

अराजकदुरवस्थावर्णनम्

arājakaduravasthāvarṇanam — word-by-word gloss for all 38 shlokas.

Page 4 of 438 shlokas in this sarga (verified max-across-sources)
Shloka 67.31Word-by-word available

नाराजके जनपदे स्वकं भवति कस्यचित् । मत्स्या इवनरा नित्यं भक्षयन्ति परस्परम् ।।2.67.31।।

Meaning

Shloka 67.32Word-by-word available

ये हि सम्भिन्नमर्यादा नास्तिकाश्चिन्न संशयाः । तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ।।2.67.32।।

Meaning

Shloka 67.33Word-by-word available

यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ।।2.67.33।।

Meaning

Shloka 67.34Word-by-word available

राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ।।2.67.34।।

Meaning

Shloka 67.35Word-by-word available

यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः ।।2.67.35।।

Meaning

Shloka 67.36Word-by-word available

अहो तमैवेदं स्यात् न प्रज्ञायेत किञ्चन । राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ।।2.67.36।।

Meaning

Shloka 67.37Word-by-word available

जीवत्यपि महाराजे तवैव वचनं वयम् । नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ।।2.67.37।।

Meaning

Shloka 67.38Word-by-word available

स नः समीक्ष्य द्विजवर्य वृत्तम् नृपं विना राज्यमरण्यभूतम् । कुमारमिक्ष्वाकुसुतं वदान्यम् त्वमेव राजानमिहाभिषिञ्च ।।2.67.38।।

Meaning