Sarga 73: Bharata Condemns Kaikeyī
कैकेयीगर्हणम्
kaikeyīgarhaṇam — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् । प्रस्थाप्य वनवासाय कथं पापे न शोचसि ।।2.73.11।।
Meaning
अपापदर्शनं शूरं कृतात्मानं यशस्विनम् । प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ।।2.73.12।।
Meaning
लुब्धाया विदितः मन्ये न तेऽहं राघवं प्रति । तथा ह्यनर्थो राज्यार्थं त्वयानीतः महानयम् ।।2.73.13।।
Meaning
अहं हि पुरुषव्याघ्रौ अपश्यन् रामलक्ष्मणौ । केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ।।2.73.14।।
Meaning
तं हि नित्यं महाराजो बलवन्तं महाबलः । अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ।।2.73.15।।
Meaning
सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् । दम्यो धुरमिवासाद्य सहेयं केन चौजसा ।।2.73.16।।
Meaning
अथवा मे भवेच्छक्तिर्योगैः बुद्धिबलेन वा । सकामां न करिष्यामि त्वामहं पुत्र गर्धिनीम् ।।2.73.17।।
Meaning
न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ।।2.73.18।।
Meaning
उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनी । साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ।।2.73.19।।
Meaning
अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ।।2.73.20।।
Meaning