← Ayodhyā Kāṇḍa

Sarga 73: Bharata Condemns Kaikeyī

कैकेयीगर्हणम्

kaikeyīgarhaṇam — word-by-word gloss for all 28 shlokas.

Jump to a shloka · 28 in this sarga

Page 3 of 328 shlokas in this sarga (verified max-across-sources)
Shloka 73.21Word-by-word available

न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे । गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ।।2.73.21।।

Meaning

Shloka 73.22Word-by-word available

सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते । राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः ।।2.73.22।।

Meaning

Shloka 73.23Word-by-word available

तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम् । अद्य चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्ततम् ।।2.73.23।।

Meaning

Shloka 73.24Word-by-word available

तवापि सुमहाभागाः जनेन्द्राः कुलपूर्वगाः । बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः ।।2.73.24।।

Meaning

Shloka 73.25Word-by-word available

न तु कामं करिष्यामि तवाहं पापनिश्चये । त्वया व्यसनमारब्धं जीवितान्तकरं मम ।।2.73.25।।

Meaning

Shloka 73.26Word-by-word available

एष त्विदानीमेवाहमप्रियार्थं तवनघम् । निवर्तयिष्यामि वनात् भ्रातरं स्वजनप्रियम् ।।2.73.26।।

Meaning

Shloka 73.27Word-by-word available

निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः । दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ।।2.73.27।।

Meaning

Shloka 73.28Word-by-word available

इत्येवमुक्त्वा भरतः महात्मा प्रियेतरैः वाक्यगणैस्तुदंस्ताम् । शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः ।।2.73.28।।

Meaning