Sarga 13: Daśaratha's Lament
दशरथविलापः
daśarathavilāpaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
सुखानामुचितस्यैव दुःखैरनुचितस्य च। दुःखं नामानुपश्येयं कथं रामस्य धीमतः ।।2.13.11।।
Meaning
यदि दुःखमकृत्वाऽद्य मम सङ्क्रमणं भवेत्। अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ।।2.13.12।।
Meaning
नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम्। किं विप्रियेण कैकेयि प्रियं योजयसे मम ।।2.13.13।।
Meaning
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे। तथा विलपतस्तस्य परिभ्रमितचेतसः ।।2.13.14।।
Meaning
अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत। सा त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता ।।2.13.15।।
Meaning
राज्ञो विलपमानस्य न व्यभासत शर्वरी। तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ।।2.13.16।।
Meaning
विललापार्तवद्दुःखं गगनासक्तलोचनः। न प्रभातं तयेच्छामि निशे नक्षत्रभूषणे ।।2.13.17।।
Meaning
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः। अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ।।2.13.18।।
Meaning
नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं महत्। एवमुक्त्वा ततो राजा कैकेयीं सम्यताञ्जलिः ।।2.13.19।।
Meaning
प्रसादयामास पुनः कैकेयीं चेदमब्रवीत्। साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ।।2.13.20।।
Meaning