← Ayodhyā Kāṇḍa

Sarga 13: Daśaratha's Lament

दशरथविलापः

daśarathavilāpaḥ — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 3 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 13.21Word-by-word available

प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः। शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् ।।2.13.21।।

Meaning

Shloka 13.22Word-by-word available

कुरु साधु प्रसादं मे बाले सहृदया ह्यसि। प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् ।।2.13.22।।

Meaning

Shloka 13.23Word-by-word available

लभतामसितापाङ्गे यशः परमवाप्नुहि। मम रामस्य लोकस्य गुरूणां भरतस्य च। प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।।2.13.23।।

Meaning

Shloka 13.24Word-by-word available

विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ।।2.13.24।।

Meaning

Shloka 13.25Word-by-word available

ततः स राजा पुनरेव मूर्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसञ्ज्ञो निपपात दुःखितः ।।2.13.25।।

Meaning

Shloka 13.26Word-by-word available

इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः। विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः ।।2.13.26।।

Meaning