Sarga 50: Meeting with Guha
गुहसङ्गतम्
guhasaṅgatam — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् । नानापुष्परजोध्वस्तां समदामिव च क्वचित् ।।2.50.21।।
Meaning
व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् । दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ।।2.50.22।।
Meaning
देवोपवाह्यैश्च मुहुः सन्नादितवनान्तराम् । प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ।।2.50.23।।
Meaning
फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा । शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् ।।2.50.24।।
Meaning
विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ।।2.50.25।।
Meaning
समुद्रमहीषीं गङ्गां सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गबेरपुरं प्रति ।।2.50.26।।
Meaning
तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः । सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे ।।2.50.27।।
Meaning
अविदूरादयं नद्याः बहुपुष्पप्रवालवान् । सुमहानिङ्गुदीवृक्षे वसामोऽत्रैव सारथे ।।2.50.28।।
Meaning
द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम् ।।2.50.29।।
Meaning
लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् । उक्त्वा तमिन्गुदीवृक्षं तदोपययतुर्हयैः ।।2.50.30।।
Meaning