← Ayodhyā Kāṇḍa

Sarga 50: Meeting with Guha

गुहसङ्गतम्

guhasaṅgatam — word-by-word gloss for all 51 shlokas.

Page 4 of 651 shlokas in this sarga (verified max-across-sources)
Shloka 50.31Word-by-word available

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः । रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः ।।2.50.31।।

Meaning

Shloka 50.32Word-by-word available

सुमन्त्रोऽप्यवतीर्यास्मान्मोचयित्वा हयोत्तमान् । वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ।।2.50.32।।

Meaning

Shloka 50.33Word-by-word available

तत्र राजा गुहो नाम रामस्यात्मसमः सखा । निषादजात्यो बलवान्स्थपतिस्चेति विश्रुतः ।।2.50.33।।

Meaning

Shloka 50.34Word-by-word available

स शृत्वा पुरुषव्याघ्रं रामं विषयमागतम् । वृद्धैः परिवृतोऽमात्यैरज्ञातिभिश्चाभ्युपागतः ।।2.50.34।।

Meaning

Shloka 50.35Word-by-word available

ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् । सह सौमित्रिणा रामः समागच्छद्गुहेन सः ।।2.50.35।।

Meaning

Shloka 50.36Word-by-word available

तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत् । यथाऽयोध्या तथेयं ते राम किं करवाणि ते ।।2.50.36।।

Meaning

Shloka 50.37Word-by-word available

ईदृशं हि महाबाहो कः प्रप्स्यत्यतिथिं प्रियम् । ततः गुणवदन्नाद्यमुपादाय पृथग्विधम् । अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह ।।2.50.37।।

Meaning

Shloka 50.38Word-by-word available

स्वागतं ते महाबाहो तवेयमखिला मही । वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ।।2.50.38।।

Meaning

Shloka 50.39Word-by-word available

भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् । शयनानि च मुख्यानि वाजिनां खादनं च ते ।।2.50.39।।

Meaning

Shloka 50.40Word-by-word available

गुहमेवं ब्रुवाणं तं राघवः प्रत्युवाच ह ।।2.50.40।।

Meaning