Sarga 50: Meeting with Guha
गुहसङ्गतम्
guhasaṅgatam — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् । पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ।।2.50.41।।
Meaning
भुजाभ्यां साधु वृत्ताभ्यां पीडयन्वाक्यमब्रवीत् । दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः ।।2.50.42।।
Meaning
अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च । यत्त्विदं भवता किञ्चित्प्रीत्या समुपकल्पितम् । सर्वं तदनुजानामि नहि वर्ते प्रतिग्रहे ।।2.50.43।।
Meaning
कुशचीराजिनधरं फलमूलाशिनं च माम् । विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ।।2.50.44।।
Meaning
अश्वानां खादनेनाहमर्थी नान्येन केनचित् । एतावताऽत्र भवता भविष्यामि सुपूजितः ।।2.50.45।।
Meaning
एते हि दयिता राज्ञः पितुर्दशरथस्य मे । एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः ।।2.50.46।।
Meaning
अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् । गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ।।2.50.47।।
Meaning
ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् । जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ।।2.50.48।।
Meaning
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः । सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ।।2.50.49।।
Meaning
गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् । अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ।।2.50.50।।
Meaning