Sarga 36: Siddhārtha's Counsel
सिद्धार्थप्रतिबोधनम्
siddhārthapratibodhanam — word-by-word gloss for all 33 shlokas.
Jump to a shloka · 33 in this sarga
तानुवाच ततो राजा किं निमित्तमिदं भयम् । ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् ।।2.36.21।।
Meaning
क्रीडतस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः । सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ।।2.36.22।।
Meaning
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः । तं तत्याजाहितं पुत्रं तेषां प्रियचिकीर्षया ।।2.36.23।।
Meaning
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् । यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता ।।2.36.24।।
Meaning
स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् । दिशः सर्वास्त्वनुचरन्स यथा पापकर्मकृत् ।।2.36.25।।
Meaning
इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः । रामः किमकरोत्पापं येनैवमुपरुध्यते ।।2.36.26।।
Meaning
न हि कञ्चन पश्यामो राघवस्यागुणं वयम् । दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ।।2.36.27।।
Meaning
अथवा देवि दोषं त्वं कञ्चित्पश्यसि राघवे । तमद्य ब्रूहि तत्वेन ततो रामो विवास्यताम् ।।2.36.28।।
Meaning
अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च । निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ।।2.36.29।।
Meaning
तदलं देवि रामस्य श्रिया विहतया त्वया । लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने ।।2.36.30।।
Meaning